सुखावतीव्यूहः
॥ नमः सर्वज्ञाय ॥
एवं मया श्रुतम् । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरभिज्ञाताभिज्ञातैः स्थविरैर्महाश्रावकैः सर्वैरर्हद्भिः । तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकोष्ठिलेन च रेवतेन च चूडपन्थकेन च नन्देन चानन्देन च राहुलेन च गवांपतिना च भरद्वाजेन च कालोदयिना च वक्कुलेन चानिरुद्धेन च । एतैश्चान्यैश्च संबहुलैर्महाश्रावकैः । संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः । तद्यथा मञ्जुश्रिया च कुमारभूतेनाजितेन च बोधिसत्त्वेन गन्धहस्तिना च बोधिसत्त्वेन नित्योद्युक्तेन च बोधिसत्त्वेनानिक्षिप्तधुरेण च बोधिसत्त्वेन । एतैश्चान्यैश्च संबहुलैर्बोधिसत्त्वैर्महासत्त्वैः । शक्रेण च देवानामिन्द्रेण ब्रह्मणा च सहांपतिना । एतैश्चान्यैश्च संबहुलैर्देवपुत्रनयुतशतसहस्रैः ॥१॥
तत्र खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयति स्म । अस्ति शारिपुत्र पश्चिमे दिग्भाग इतो बुद्धक्षेत्रात्कोटिशतसहस्रं बुद्धक्षेत्राणामतिक्रम्य सुखावती नाम लोकधातुः । तत्रामितायुर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति । तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते । तस्यां खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न चित्तदुःखमप्रमाणान्येव सुखकारणानि । तेन कारणेन सा लोकधातुः सुखावतीत्युच्यते ॥२॥
पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपङ्क्तिभिः कङ्कणीजालैश्च समलंकृता समन्ततो ऽनुपरिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानाम् । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥३॥
पुनरपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । अष्टाङ्गोपेतवारिपरिपूर्णाः समतीर्थिकाः काकपेयाः सुवर्णवालुकासंस्तृताः । तासु च पुष्करिणीषु समन्ताच्चतुर्दिशं चत्वारि सोपानानि चित्राणि दर्शनीयानि चतुर्णां रत्नानाम् । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य । तासां च पुष्करिणीनां समन्ताद्रत्नवृक्षा जाताश्चित्रा दर्शनीयाः सप्तानां रत्नानाम् । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । तासु च पुष्करिणीषु सन्ति पद्मानि जातानि नीलानि नीलवर्णानि नीलनिर्भासानि नीलनिदर्शनानि । पीतानि पीतवर्णानि पीतनिर्भासानि पीतनिदर्शनानि । लोहितानि लोहितवर्णानि लोहितनिर्भासानि लोहितनिदर्शनानि । अवदातान्यवदातवर्णान्यवदातनिर्भासान्यवदातनिदर्शनानि । चित्राणि चित्रवर्णानि चित्रनिर्भासानि चित्रनिदर्शनानि शकटचक्रप्रमाणपरिणाहानि । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥४॥
पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे नित्यप्रवादितानि दिव्यानि तूर्याणि सुवर्णवर्णा च महापृथिवी रमणीया । तत्र च बुद्धक्षेत्रे त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य पुष्पवर्षं प्रवर्षति दिव्यानां मान्दारवपुष्पाणाम् । तत्र ये सत्त्वा उपपन्नास्त एकेन पुरोभक्तेन कोटिशतसहस्रं बुद्धानां वन्दन्त्यन्याँल्लोकधातून्गत्वा । एकैकं च तथागतं कोटिशतसहस्राभिः पुष्पवृष्टिभिरभ्यवकीर्य पुनरपि तामेव लोकधातुमागच्छन्ति दिवाविहाराय । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥५॥
पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे सन्ति हंसाः क्रौञ्चा मयूराश्च । ते त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वन्ति स्म स्वकस्वकानि च रुतानि प्रव्याहरन्ति । तेषां प्रव्याहरतामिन्द्रियबलबोध्यङ्गशब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते धर्ममनसिकार उत्पद्यते संघमनसिकार उत्पद्यते । तत्किं मन्यसे शारिपुत्र तिर्यग्योनिगतास्ते सत्त्वाः । न पुनरेवं द्रष्टव्यम् । तत्कस्माद्धेतोः । नामापि शारिपुत्र तत्र बुद्धक्षेत्रे निरयाणां नास्ति तिर्यग्योनीनां यमलोकस्य नास्ति । ते पुनः पक्षिसंघास्तेनामितायुषा तथागतेन निर्मिता धर्मशब्दं निश्चारयन्ति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥६॥
पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे तासां च तालपङ्क्तीनां तेषां च कङ्कणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति । तद्यथापि नाम शारिपुत्र कोटिशतसहस्राङ्गिकस्य दिव्यस्य तूर्यस्य चार्यैः संप्रवादितस्य वल्गुर्मनोज्ञः शब्दो निश्चरति । एवमेव शारिपुत्र तासां च तालपङ्क्तीनां तेषां च कङ्कणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धानुस्मृतिः काये संतिष्ठति धर्मानुस्मृतिः काये संतिष्ठति संघानुस्मृतिः काये संतिष्ठति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥७॥
तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमितायुर्नामोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्य तेषां च मनुष्याणामपरिमितमायुःप्रमाणम् । तेन कारणेन स तथागतो ऽमितायुर्नामोच्यते । तस्य च शारिपुत्र तथागतस्य दश कल्पा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य ॥८॥
तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमिताभो नामोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्याभाप्रतिहता सर्वबुद्धक्षेत्रेषु । तेन कारणेन स तथागतो ऽमिताभो नामोच्यते । तस्य च शारिपुत्र तथागतस्याप्रमेयः श्रावकसंघो येषां न सुकरं प्रमाणमाख्यातुं शुद्धानामर्हताम् । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥९॥
पुनरपरं शारिपुत्र ये ऽमितायुषस्तथागतस्य बुद्धक्षेत्रे सत्त्वा उपपन्नाः शुद्धा बोधिसत्त्वा अविनिवर्तनीया एकजातिप्रतिबद्धास्तेषां शारिपुत्र बोधिसत्त्वानां न सुकरं प्रमाणमाख्यातुमन्यत्राप्रमेयासंख्येया इति संख्यां गच्छन्ति ॥ तत्र खलु पुनः शारिपुत्र बुद्धक्षेत्रे सत्त्वैः प्रणिधानं कर्तव्यम् । तत्कस्माद्धेतोः । यत्र हि नाम तथारूपैः सत्पुरुषैः सह समवधानं भवति । नावरमात्रकेण शारिपुत्र कुशलमूलेनामितायुषस्तथागतस्य बुद्धक्षेत्रे सत्त्वा उपपद्यन्ते । यः कश्चिच्छारिपुत्र कुलपुत्रो वा