अमितप्रभ अनन्ततुल्यबुद्धे ।

न च इह अन्य प्रभा विभाति काचित् ।

सूर्यमणिसिरीण चन्द्रआभा ।

न तपिन भासिषु एभि सर्वलोके ॥१॥

रूपमपि अनन्तु सत्त्वसारे ।

तथापि  । तत्रामितायुर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति । तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते । तत्र खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न चित्तदुःखं अप्रमाणान्येव सुखकारणानि । तेन कारणेन सा लोकधातुः सुखावतीत्युच्यते  ॥२॥

पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपंक्तिभिः किंकिणीजालैश्च समलंकृता समंततो ऽनुपरिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानां । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥३॥

पुनरपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । अष्टांगोपेतवारिपरिपूर्णाः समतीर्थकाः काकपेया सुवर्णवालुकासंस्तृताः । तासु च पुष्करिणीषु समंताच्चतुर्दिशं चत्वारि सोपानानि चित्राणि दर्शनीयानि चतुर्णां रत्नानां । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य । तासां च पुष्करिणीनां समंताद्रत्नवृक्षा जाताश्चित्रा दर्शनीया सप्तानां रत्नानां । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । तासु च पुष्करिणीषु संति पद्मानि जातानि नीलानि नीलवर्णानि नीलनिर्भासानि नीलनिदर्शनानि । पीतानि पीतवर्णानि पीतनिर्भासानि पीतनिदर्शनानि । लोहितानि लोहितवर्णानि लोहितनिर्भासानि लोहितनिदर्शनानि । अवदातान्यवदातवर्णान्यवदातनिर्भासान्यवदातनिदर्शनानि । चित्राणि चित्रवर्णानि चित्रनिर्भासानि चित्रनिदर्शनानि शकटचक्रप्रमाणपरिणाहानि । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥४॥

पुनरपरं शीरिपुत्र तत्र बुद्धक्षेत्रे नित्यप्रवादितानि दिव्यानि तूर्याणि सुवर्णवर्णा च महापृथिवी रमणीया । तत्र च बुद्धक्षेत्रे त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य पुष्पवर्षं प्रवर्षति दिव्यानां मांदारवपुष्पाणां । तत्र ये सत्त्वा उपपन्नास्त एकेन पुरोभक्तेन कोटिशतसहस्रं बुद्धानां वंदंत्यन्याँल्लोकधातून्गत्वा । एकैकं च तथागतं कोटिशतसहस्राभिः पुष्पवृष्टिभिरभ्यवकीर्य पुनरपि तामेव लोकधातुमागच्छंति दिवाविहाराय । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥५॥

पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे संति हंसाः क्रौंचा मयूराश्च । ते त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वंति स्म स्वकस्वकानि च रुतानि प्रव्याहरंति । तेषां प्रव्याहरतामिंद्रियबलबोध्यंगशब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते धर्ममनसिकार उत्पद्यते संघमनसिकार उत्पद्यते ॥ तत्किं मन्यसे शारिपुत्र तिर्यग्योनिगतास्ते सत्त्वाः । न पुनरेवं द्रष्टव्यं । तत्कस्माद्धेतोः । नामापि शारिपुत्र तत्र बुद्धक्षेत्रे निरयाणां नास्ति तिर्यग्योनीनां यमलोकस्य नास्ति । ते पुनः पक्षिसंघास्तेनामितायुषा तथागतेन निर्मिता धर्मशब्दं निश्चारयंति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥६॥

पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति । तद्यथापि नाम शारिपुत्र कोटिशतसहस्रांगिकस्य दिव्यस्य तूर्यस्य चार्यैः संप्रवादितस्य वल्गुर्मनोज्ञः शब्दो निश्चरति एवमेव शारिपुत्र तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धानुस्मृतिः काये संतिष्ठति धर्मानुस्मृतिः काये संतिष्ठति संघानुस्मृतिः काये संतिष्ठति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥७॥

तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमितायुर्नामोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्य तेषां च मनुष्याणामपरिमितमायुःप्रमाणं । तेन कारणेन स तथागतो ऽमितायुर्नामोच्यते । तस्य च शारिपुत्र तथागतस्य दश कल्पा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य  ॥८॥

तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतो ऽमिताभो नामोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्याभाप्रतिहता सर्वबुद्धक्षेत्रेषु । तेन कारणेन स तथागतो ऽमिताभो नामोच्यते ॥ तस्य च शारिपुत्र तथागतस्याप्रमेयः श्रावकसंघो येषां न सुकरं प्रमाणमाख्यातुं शुद्धानामर्हतां । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रं  ॥९॥

पुनरपरं शारिपुत्र ये ऽमितायुषस्तथागतस्य बुद्धक्षेत्रे सत्त्वा उपपन्नाः शुद्धा बोधिसत्त्वा अविनिवर्तनीया एकजातिप्रतिबद्धास्तेषां शारिपुत्र बोधिसत्त्वानां न सुकरं प्रमाणमाख्यातुमन्यत्राप्रमेयासंख्येया इति संख्यां गच्छंति ॥ तत्र खलु पुनः शारिपुत्र बुद्धक्षेत्रे सत्त्वैः प्रणिधानं कर्तव्यं । तत्कस्माद्धेतोः । यत्र हि नाम तथारूपैः सत्पुरुषैः सह समवधानं भवति । नावरमात्रकेण शारिपुत्र कुशलमूलेनामितायुषस्तथागतस्य बुद्धक्षेत्रे सत्त्वा उपपद्यंते । यः कश्चिच्छारिपुत्र कुलपुत्रो वा कुलदुहिता वा तस्य भगवतो ऽमितायुषस्तथागतस्य नामधेयं श्रोष्यति श्रुत्वा च मनसिकरिष्यति एकरात्रं वा द्विरात्रं वा त्रिरात्रं वा चतूरात्रं वा पंचरात्रं वा षड्रात्रं वा सप्तरात्रं वाविक्षिप्तचित्तो मनसिकरिष्यति यदा स कुलपुत्रो वा कुलदुहिता वा कालं करिष्यति तस्य कालं कुर्वतः सो ऽमितायुस्तथागतः श्रावकसंघपरिवृतो बोधिसत्त्वगणपुरस्कृतः पुरतः स्थास्यति सो ऽविपर्यस्तचित्तः कालं करिष्यति च । स कालं कृत्वा तस्यैवामितायुषस्तथागतस्य बुद्धक्षेत्रे सुखावत्यां लोकधातावुपपत्स्यते । तस्मात्तर्हि शारिपुत्र इदमर्थवशं संपश्यमान एवं वदामि सत्कृत्य कुलपुत्रेण वा कुलदुहित्रा वा तत्र बुद्धक्षेत्रे चित्तप्रणिधानं कर्तव्यं  ॥१०॥

तद्यथापि नाम शारिपुत्र अहमेतर्हि तां परिकीर्तयामि एवमेव शारिपुत्र पूर्वस्यां दिश्यक्षोभ्यो नाम तथगतो मेरुध्वजो नाम तथागतो महामेरुर्नाम तथागतो मेरुप्रभासो नाम तथागतो मंजुध्वजो नाम तथागत एवंप्रमुखाः शारिपुत्र पूर्वस्यां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥११॥

एवं दक्षिणस्यां दिशि चंद्रसूर्यप्रदीपो नाम तथागतो यशःप्रभो नाम तथागतो महार्चिस्कंधो नाम तथागतो मेरुप्रदीपो नाम तथागतो ऽनंतवीर्यो नाम तथागत एवंप्रमुखाः शारिपुत्र दक्षिणस्यां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥१२॥

एवं पश्चिमायां दिश्यमितायुर्नाम तथागतो ऽमितस्कंधो नाम तथागतो ऽमितध्वजो नाम तथगतो महाप्रभो नोम तथगतो महारत्नकेतुर्नाम तथागतः शुद्धरश्मिप्रभो नाम तथागत एवंप्रमुखाः शारिपुत्र पश्चिमायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥१३॥

एवमुत्तरायां दिशि महार्चिस्कंधो नाम तथागतो वैश्वानरनिर्घोषो नाम तथागतो दुंदुभिस्वरनिर्घोषो नाम तथागतो दुष्प्रधर्षो नाम तथागत अदित्यसंभवो नाम तथागतो जलेनिप्रभो नाम तथागतः प्रभाकरो नाम तथागत एवंप्रमुखा शारिपुत्रोत्तरायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥१४॥

एवमधस्तायां दिशि सिंहो नाम तथागतो यशो नाम तथागतो यशःप्रभासो नाम तथागतो धर्मो नाम तथागतो धर्मधरो नाम तथागतो धर्मध्वजो नाम तथागत एवंप्रमुखाः शारिपुत्राधस्तायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥१५॥

एवमुपरिष्ठायां दिशि ब्रह्मघोषो नाम तथागतो नक्षत्रराजो नाम तथागत इंद्रकेतुध्वजराजो नाम तथागतो गंधोत्तमो नाम तथागतो गंधप्रभासो नाम तथागतो महार्चिस्कंधो नाम तथागतो रत्नकुसुमसंपुष्पितगात्रो नाम तथागतः सालेंद्रराजो नाम तथागतो रत्नोत्पलश्रीर्नाम तथागतः सर्वार्थदर्शो नाम तथागतः सुमेरुकल्पो नाम तथागत एवंप्रमुखाः शारिपुत्रोपरिष्ठायां दिशि गंगानदीवालुकोपमा बुद्धा भगवंतः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेंद्रियेण संच्छादयित्वा निर्वेठनं कुर्वंति । प्रतीयथ यूयमिदमचिंत्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायं  ॥१६॥

तत्किं मन्यसे शारिपुत्र केन कारणेनायं धर्मपर्यायः सर्वबुद्धपरिग्रहो नामोच्यते । ये केचिच्छारिपुत्र कुलपुत्रा वा कुलदुहितरो वास्य धर्मपर्यायस्य नामधेयं श्रोष्यंति तेषां च बुद्धानां भगवतां नामधेयं धारयिष्यंति सर्वे ते बुद्धपरिगृहीता भविष्यंत्यविनिवर्तनीयाश्च भविष्यंत्यनुत्तरायां सम्यक्संबोधौ । तस्मात्तर्हि शारिपुत्र श्रद्दधाध्वं प्रतीयथ माकांक्षयथ मम च तेषां च बुद्धानां भगवतां । ये केचिच्छारिपुत्र कुलपुत्रा वा कुलदुहितरो वा तस्य भगवतो ऽमितायुषस्तथागतस्य बुद्धक्षेत्रे चित्तप्रणिधानं करिष्यंति कृतं वा कुर्वंति वा सर्वे ते ऽविनिवर्तनीया भविष्यंत्यनुत्तरायां सम्यक्संबोधौ तत्र च बुद्धक्षेत्र उपपत्स्यंत्युपपन्ना वोपपद्यंति वा । तस्मात्तर्हि शारिपुत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिश्च तत्र बुद्धक्षेत्रे चित्तप्रणिधिरुत्पादयितव्यः  ॥१७॥

तद्यथापि नाम शारिपुत्राहमेतर्हि तेषां बुद्धानां भगवतामेवमचिंत्यगुणान्परिकीर्तयामि एवमेव शारिपुत्र ममापि ते बुद्धा भगवंत एवमचिंत्यगुणान्परिकीर्तयंति । सुदुष्करं भगवता शाक्यमुनिना शाक्याधिराजेन कृतं । सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः कल्पकषाये सत्त्वकषाये दृष्टिकषाय आयुष्कषाये क्लेशकषाये  ॥१८॥

तन्ममापि शारिपुत्र परमदुष्करं यन्मया सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः सत्त्वकषाये दृष्टिकषाये क्लेशकषाय आयुष्कषाये कल्पकषाये  ॥१९॥

इदमवोचद्भगवानात्तमनाः । आयुष्माञ्शारिपुत्रस्ते च भिक्षवस्ते च बोधिसत्त्वाः सदेवमानुषासुरगंधर्वश्च लोको भगवतो भाषितमभ्यनंदन्  ॥२०॥

 ॥ सुखावतीव्यूहो नाम महायानसूत्रं ॥